प्रेरकप्रसंग: “जलमेव जीवनम्”
एक: परिवार: आसीत्।
तत्र राघव: अभिभावकाभ्यां सह निवससि स्म। प्रात: राघव: यदा स्नानार्थं स्नानागारं प्रविशति तदा स: स्नानाय बहु जलं उपयोगं कुर्वन् भवति स्म। तथैव भोजनान्ते मुखहस्तप्रक्षालनसमये, क्रीडानन्तरं मुखहस्तपादप्रक्षालनसमये, शौचालये शौचक्रियासमये एवं दन्तधावनक्रियायां वा भवतु सर्वत्रापि जलस्य आधिक्येन हि दुरुपयोगं करोति स्म। एतत् सर्वम् अनुचितं इति ज्ञात्वापि राघवस्य माता पुत्रमोहेन, सर्वदा एवमेव पश्यति स्म। स्वप्रियपुत्रं कदापि किमपि न कथयति स्म एव।
अवकाशदिवस: आसीत्। तथापि राघव: प्रात: एव उत्थाय स्नातुं गच्छति यत: तेन परीक्षाया: सज्जता करणीया आसीत्। राघवस्य पितापि तद्दिने गृहे एव आसीत्। स: पुत्रस्यानन्तरं स्नानागारं प्रविशति। तत्र सर्वमपि जलमग्नं दृष्ट्वा मनसि किंचिद् विचारयति।
तत: स: आदिनं पुत्रस्य गतिविधिं पश्यति। रात्रौ भोजनानन्तरं स: स्वपत्नीं पृच्छति- राघव: सर्वदा जलस्याधिक्येन दुरुपयोगं करोति किम्? भवती तं किमर्थं न शिक्षयति यत् जलस्य संरक्षणं करणीयमिति? राघवस्य माता अत्र खेदं प्रकटयति यत् तया पूर्वमेव पुत्र: बोधनीय: इति। राघव: तन्मध्ये एव तत्र आयाति पृच्छति च- किं जायमानम् अस्ति भो:? तदा तस्य पिता जलस्य महत्वं चर्चयन् अन्ते जलसदुपयोगस्य पाठं अनायासं तर्जनेन विना हि राघवं बोधयति ।।
स: वदति पुत्र !“जलमेव जीवनम्” खलु? अस्माकं अस्तित्वं जलं विना तु नास्त्येव। तदा तदा राघवेण मध्ये मध्ये कृतस्या: जिज्ञासाया: उपशमनमपि
तस्य पिता सरलतया बोधयन्नासीत् ।तस्य पिता जलविभागे कर्मकर: आसीत् इति कारणेन स: स्वपुत्रं सर्वमपि अनायासेन बोधने समर्थ: जात: । परन्तु इदानीम् तु एतत्प्रसंगं पठित्वा किंचित् शोधमपि कृत्वा सर्वोऽपि अभिभावक: राघवसदृशान् बालकान् बोधयितुं निश्चयेन समर्थ: भविष्यति इति मे दृढ़निश्चय:।
आशय:- “अस्माभि: सर्वैरपि मिलित्वा जलसदुपयोग: करणीय: कारणीयश्च।”
ॐ सर्वे भवन्तु सुखिनः ।
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु ।
मा कश्चित् दुःख भाग्भवेत् ॥
ॐ शान्तिः शान्तिः शान्तिः॥